. || सुधा धारा स्तोत्र ||
. रचना: भगवान शिवजी
ॐ कार उरमां उठत, रटण रसण सीय राम
जो नीत गाये जोगडा, करे पुरण सब काम
अचिन्त्यामिताकार - शक्तिस्वरुपा
प्रतिव्यक्त्यधिष्ठान सत्त्वैकमूर्तिः
गुणतीत निर्द्वन्द्वबोधैकगम्या
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ १
अगोत्राकृतित्वाद नैकान्तिकत्वात्
अलक्ष्यागमत्वाद-शेषाकरत्वात्
प्रपञ्चालसत्वादनारम्भकत्वात्
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ २
असाधारणत्वाद सम्बन्धकत्वात्
अभिन्नाश्रयत्वाद-नाकारकत्वात्
अविद्यात्मकत्वाद-नाद्यन्तकत्वात्
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ ३
यदा नैव धाता न विष्णुर्न रुद्रो
न कालो न व पञ्चभूतानि नाशा
तदाकरणीभूत स्त्त्वैक मूर्तिः
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ ४
न मीमांसका नैव कालादितर्का
न सांख्यां न योगा न वेदान्तवेदाः
न देवा विदुस्ते निराकारभावम्
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ ५
न ते नामगोत्रे, न ते जन्म मृत्युः
न ते धामचेष्टे न ते दुःख सौख्ये
न ते मित्र शत्रु न ते बंध मोक्षो
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ ६
न बाला न चत्त्वं वयस्का न वृद्धा
न च स्त्री न षण्डः पुमान्नैव च त्वम्
न च त्वं सुरो नासुरो न नरो वा
त्वमेँका परःब्रह्मरुपेण सिद्धाः ॥ ७
जले शीतलत्त्वं शुचौ दाहकत्त्वं
विधौ निर्मलत्त्वं रवौ तापकत्त्वं
तवैषाम्बिके यस्य कस्यापि शक्तिः
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ ८
पपौ क्ष्वेडमुग्रं पुरा यन्महेशः
पुनः संहरत्यन्तकाले जगच्च
तवैव प्रसादान् न च स्वस्य शक्त्या
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ ९
करालाकृतीन्याननानिश्रयन्ती
भजन्ती करास्त्रादि बाहुज्यमित्थम्
जगत् पालनायासुराणाम् वधाय
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ १०
रुचन्ती शिवाभिर् वहन्ती कपालं
जयन्ती सुरारीन् वधन्ती प्रसन्ना
नटन्ती, पतन्ती, चलन्ती हसन्ती
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ ११
अपादापि वाताधिकं द्यावसित्त्वं
श्रुतिभ्यांविहीनापि शब्दं मृणोषि
अनासापि जिघ्रस्यानेत्रापि पश्यसि
अजिह्वापि नानारसास्वादविज्ञा ॥ १२
यथाबिम्बमेकं रवेरम्बरस्थं
प्रतिच्छायया यावदेकोदकेषु
समुद्रमातते नेकरुपं यथावत्
त्वमेका परःब्रह्मरुपेण सिद्धाः ॥ १३
यथा भ्रामयित्वा मृदं चक्रमध्ये
कुलालो विधन्ते शरावे घटं च
महामोह यंत्रेषु भूतान्यशेषान्
तथा मानुषांस्त्वं सृजस्यादिसर्गे ॥ १४
यथा रंगरज्वर्कदृष्टिष्वकस्मात्
नृणाम् रुपदर्वीकराम्बु भ्रमस्यात्
जगत्, यत्र तत्तन्मये तद्वदेव
त्वमेकैव तत्त् तन्नि तत्ता समस्तम् ॥ १५
महाज्योति एकार सिँहासनं वत्
त्वकीयान् सुरान् वाहयसि उग्रमूर्ते
अवष्टभ्य पदभ्यां शिवं भैरवं च
स्थितातेन मध्ये भवत्यैव मुख्या ॥ १६
कुयोगासने योगमुद्रभिः नीतिः
कुशोभायुपोतस्य बालाननं च
जगन्मातराद्वक् तवापूर्व लीला
कथं कारमस्मत् विधैर्देविगम्या ॥ १७
विशुद्धापरा चिन्मयी स्वप्रकाशः
मृतानंदरुपा जगद् वयापिका च
तवेदद्-विद्या या निजाकार मूर्ति
किमस्माभिरंतर - ह्यदि ध्यायितव्या ॥ १८
महाघोर कालानल ज्वालज्वाला
हित्यत् त्यन्तवासा महाटाट्टहासा
जटाभारकाला महामुण्डमाला
विशाला त्वमीद्वग् मयाध्यायशम्ब ॥ १९
तपोनैव कुर्वन् वपुः सीदयामि
व्रजन्नापि तीर्थँ पदे खंजयामि
पठन्नापि वेदान् चनिं यापयामि
त्वदंघ्रिद्वयं मंगलं साधयामि ॥ २०
तिरस्कर्वतोन्यामारोपासनार्चे
परित्यक्तधर्मादध्वरस्यास्य जन्तोः
वदाराधनान्यस्त चित्तस्य किम् मे
करिष्यन्त्यमी धर्मराजस्य दूताः ॥ २१
न मन्ये हरिँ नो विधातारमीश
न वहिनं न ह्यर्कं न चेन्द्रादिदेवान्
शिवोदीरितानेक वाक्यप्रबन्धैः
त्वदर्चाविधानं विशत्वम्ब मत्याम् ॥ २२
नरा मां विनिन्दन्तु नामत्यजेत्
सर्वा बान्धवा ज्ञातयः सन्त्यजन्त
यमीया भटा नारके पातयन्तु
त्वमेका गतिर्मे त्वमेका गतिर्मे ॥ २३
महाकाल रुद्रोदित स्तोत्रमेतत्
सदाभक्तिभावेन योऽध्येति भक्ताः
न चापन्न न शोको न रोगो न मृत्युः
भवेत् सिद्धिरन्ते च कैवल्यलाभः ॥ २४
इदं शिवायाः कथितं सुधाधाराख्यं स्तवं
एतस्य सतताभ्यासात् सिद्धिः करतलेस्थिता
एतत् स्तोत्रं च कवचं पद्मं त्रितयमप्यदः
पठनीयं प्रयत्नेन नैमिक्तिक समर्पणे ॥ २५
सौम्येन्दीवर नीलनीरद्घटा प्रोद्-दामदेहच्छटा
लास्योन्माद निनादमंगल चयैः श्रोण्यन्तदोलज्जटाः
साकालीकरवाल कालकलना हन्त्वंश्रियं चण्डिका
कालीक्रोध करालकालभयदाः उन्माद प्रमोदालयाः
नेत्रोपान्त कृतान्त दैत्यनिर्वहा प्रोद्-दान देहामया ॥
🙏🏼🙏🏼🙏🏼 इति काली सुधा धारा स्तोत्रम्
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें